प्रजाप्रतिनिधिः People's representative
नागपाली सुसम्पन्नः ग्रामः । तस्मिन् ग्रामे वामनमूर्तिः नाम कश्चित् आसीत् ।
ग्रामे यत्र कुत्रापि लघु विवादः उत्पन्नः चेदपि वामनमूर्तिः तत्र उपस्थितः भवति स्म । वदति स्म च " एतस्य विवादस्य निर्णयः अत्र न भविष्यति । अतः न्यायालयः गन्तव्यः " इति ।
एकदा कश्चन प्रजाप्रतिनिधिः राजधानीं प्रेषणीयः आसीत् । किन्तु कस्यापि प्रेषणविषये ग्रामीणानाम् एकाभिप्रायः न आसीत् ।
अन्ते ग्रामीणाः एतद्विषये निर्णयाधिकारं ग्रामप्रमुखस्य अधीनं कृतवन्तः ।
ग्रामप्रमुखः दित्राणि दिनानि यावत् रात्रौ वेषान्तरेण ग्रामे सञ्चारं कृतवान् । अन्ते उक्तवान् " वामनमूर्तिः एव प्रजाप्रतिनिधित्वेन राजधानीं गच्छतु " इति ।
तदा ग्रामीणाः आश्चर्येण पृष्टवन्तः " तं विवादजनकं वामनमूर्तिं प्रजाप्रतिनिधित्वेन प्रेषयामः वा "? इति ।
ग्रामप्रमुखः शान्तस्वरेण उक्तवान् " आम् वामतमूर्तिः ग्रामेषु विवादं जनयति इति मम अपि सन्देहः आसीत् एव । गतद्वित्रेषु दिनेषु अटनेन मम सन्देहः वास्तविकः इति दृढीकृतः । वामनमूर्तिं यदि प्रजाप्रतिनिधित्वेन प्रेषयामः तर्हि ग्रामे शान्तिः व्याप्ता भवति । यतः प्रजाप्रतिनिधिः राजधान्याम् एव निवसेत् किल " इति ।
ग्रामवासिनः ग्रामप्रमुखस्य वचनम् अङ्गीकृतवन्तः । ते ऐकमत्येन वामनमूर्तिं प्रजाप्रतिनिधिं राजधानीं प्रेषितवन्तः ।