Select English Font Size

A A A A

Select Sanskrit Font Size


बाणस्य लक्ष्यम्   The arrow's target

वीरवरः चत्वारिंशद्वर्षीयः कश्चन कृषकःकदाचित् तस्य मनसि आलोचना आगता । " अहं जन्मनि किमपि साधितवान्इतरे मम समवयस्काः ममापेक्षया कनिष्ठाः अपि कीर्तिशालिनः सञ्जाताःकेचन लक्षाधीशाः अपि जाताःअहं तु अनामधेयः इव जीवामि " इति

इतः परं जीवनं व्यर्थम् इति चिन्तयन् वीरवरः अरण्यं गतवान्तत्र मार्गे कश्चन संन्यासी मिलितःसंन्यासी पृष्टवान् " क्रूरमृगैः व्याप्तम् एतत् अरण्यं भवान् किमर्थम् आगतवान्? " इति

स्वामिन्! जीविते अहं किमपि साधितवान्अतः वैराग्येण अत्र आगतवान् " इति उक्तवान् वीरवरः

संन्यासी मन्दहासं प्रकटयन् " किमपि साधितवान् इति दुःखम् अनुभवति किल भवान् ! एवं तर्हि किं साधनीयम् इति लक्ष्यम् आसीत् भवतः? " इति पृष्टवान्

" निर्दिष्टं लक्ष्यम् किमपि नास्ति " इति उक्तवान् वीरवरःतदा संन्यासी पृष्टवान् " बाणः लक्ष्ये न योजितः एवएवं स्थिते लक्ष्यम् सिद्धम् इति खेदः किमर्थम्? " इति

एतेन वीरवरः विवेकं प्राप्तवान्तद्दिने एव सः " अहं किमपि साधितवान् " इति खेदं त्यक्त्वान्यावच्छक्यं तावत् कार्यं कुर्वन् तृप्त्या जीवनं यापितवान्