| Chapter 1 | अर्जुनविषादयोगः |
|
Original verse
Split verse, with word meanings
धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥
Translation
Translation
Dhritarashtra said: “In the holy field of dharma, the plain of Kurukshetra, gathered together and eager for battle, what did my sons and the sons of Pandu do, O Sanjaya?”
धृतराष्ट्रः उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः ।
मामकाः पाण्डवाः च एव किम् अकुर्वत सञ्जय ॥ १ ॥
धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः ।
मामकाः पाण्डवाः च एव किम् अकुर्वत सञ्जय ॥ १ ॥
Prose order
Prose order (अन्वय)
हे सञ्जय ! धर्मक्षेत्रे, कुरुक्षेत्रे, युयुत्सवः समवेताः मामकाः पाण्डवाः च एव किम् अकुर्वत ?
सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥
Translation
Translation
Sanjaya said: Having seen the army of the Pandavas drawn up in military formation, King Duryodhana then approached his teacher (Drona) and spoke these words.
सञ्जय उवाच ।
दृष्ट्वा तु पाण्डव - अनीकम् व्यूढम् दुर्योधनः तदा ।
आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत् ॥ २ ॥
दृष्ट्वा तु पाण्डव - अनीकम् व्यूढम् दुर्योधनः तदा ।
आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत् ॥ २ ॥
Prose order
Prose order (अन्वय)
तदा तु पाण्डव अनीकम् व्यूढम् दृष्ट्वा, राजा दुर्योधनः आचार्यम् उपसङ्गम्य, (इदं) वचनम् अब्रवीत् ॥
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥
Translation
Translation
Behold, O Teacher! This mighty army of the sons of Pandu, arrayed in battle formation by your intelligent disciple, the son of Drupada.”
पश्य
एताम्
पाण्डु पुत्राणाम्
आचार्य
महतीम्
चमूम् ।
व्यूढाम् द्रुपद - पुत्रेण तव शिष्येण धीमता ॥ ३ ॥
व्यूढाम् द्रुपद - पुत्रेण तव शिष्येण धीमता ॥ ३ ॥
Prose order
Prose order (अन्वय)
हे आचार्य! तव धीमता शिष्येण, द्रुपद पुत्रेण व्यूढाम् पाण्डु पुत्राणाम् एताम् महतीम् चमूम् पश्य ।
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
Translation
Translation
“Here are heroes and great bowmen, equal in battle to Bhima and Arjuna:Yuyudhāna, Virāta, and the great Drupada, capable of defeating 10,000 soldiers.”
अत्र
शूराः
महा - इषु - आसाः
भीम - अर्जुन - समाः
युधि ।
युयुधानः विराटः च द्रुपदः च महारथः ॥ ४ ॥
युयुधानः विराटः च द्रुपदः च महारथः ॥ ४ ॥
Prose order
Prose order (अन्वय)
अत्र, भीम अर्जुन समाः युधि शूराः महेष्वासा:, युयुधानः, विराटः च महारथः द्रुपदः च।
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥
Translation
Translation
Dhrishtaketu, Chekitana, and the valiant king of Kashi, Purujit and Kuntibhoja and Shaibya, the best of men.
धृष्टकेतुः
चेकितानः
काशिराजः
च
वीर्यवान् ।
पुरुजित् कुन्तिभोजः च शैब्यः च नर पुङ्गवः ॥ ५ ॥
पुरुजित् कुन्तिभोजः च शैब्यः च नर पुङ्गवः ॥ ५ ॥
Prose order
Prose order (अन्वय)
विक्रान्तः युधामन्युः च, वीर्यवान् उत्तमौजाः सौभद्रः च, द्रौपदेयाः च, सर्वे महारथाः एव ।
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥
Translation
Translation
“The strong Yudhamanyu and the brave Uttamaujas, the son of Subhadra and the sons of Draupadi, all of them, divisional commanders (capable of defeating 10,000 soldiers)”
युधामन्युः
च
विक्रान्तः
उत्तमौजाः
च
वीर्यवान् ।
सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः ॥ ६ ॥
सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः ॥ ६ ॥
Prose order
Prose order (अन्वय)
विक्रान्तः युधामन्युः च, वीर्यवान् उत्तमौजाः सौभद्रः च, द्रौपदेयाः च, सर्वे महारथाः एव ।
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥
Translation
Translation
“Know also, O best of the twice-born, the names of those who are the most distinguished amongst ourselves, the leaders of my army; these I name to thee for thy information.”
अस्माकम्
तु
विशिष्टाः
ये
तान्
निबोध
द्विज - उत्तम ।
नायकाः मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥ ७ ॥
नायकाः मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥ ७ ॥
Prose order
Prose order (अन्वय)
द्विजोत्तम ! अस्माकम् तु ये विशिष्टाः, मम सैन्यस्य नायकाः तान् निबोध । तान् संज्ञार्थम् ते ब्रवीमि ।
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥
Translation
Translation
“Yourself and Bishma, and Karna and also Kripa, the victorious in war; Aswatthama, Vikarna and so also the son of Somadatta.”
भवान्
भीष्मः
च
कर्णः
च
कृपः
समितिञ्जयः ।
अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च ॥ ८ ॥
अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च ॥ ८ ॥
Prose order
Prose order (अन्वय)
भवान् भीष्मः च, कर्णः च, समितिञ्जयः कृपः च, अश्वत्थामा विकर्णः च, तथा एव च सौमदत्तिः ।
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥
Translation
Translation
“And many other heroes also who are determined to give up their lives for my sake, armed with various weapons and missiles, all well-skilled in battle.”
अन्ये
च
बहवः
शूराः
मदर्थे
त्यक्त - जीविताः ।
नाना शस्त्र - प्रहरणाः सर्वे युद्ध - विशारदाः ॥ ९ ॥
नाना शस्त्र - प्रहरणाः सर्वे युद्ध - विशारदाः ॥ ९ ॥
Prose order
Prose order (अन्वय)
अन्ये च बहवः शूराः, सर्वे मदर्थे त्यक्तजीविताः, नाना शस्त्र प्रहरणाः युद्धविशारदाः (सन्ति) ॥
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
Translation
Translation
“Our army, protected by Bhīṣma, is unlimited in strength;but their army, protected by Bhīma, is limited in strength.”
अपर्याप्तम्
तत्
अस्माकम्
बलम्
भीष्म - अभिरक्षितम् ।
पर्याप्तम् तु इदम् एतेषाम् बलम् भीम - अभिरक्षितम् ॥ १० ॥
पर्याप्तम् तु इदम् एतेषाम् बलम् भीम - अभिरक्षितम् ॥ १० ॥
Prose order
Prose order (अन्वय)
अस्माकम् भीष्म - अभिरक्षितम् तत् बलम् अपर्याप्तम्,एतेषाम् तु भीम - अभिरक्षितम् इदम् बलम् पर्याप्तम् (अस्ति)।
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
Translation
Translation
“And stationed in all the strategic positions, each according to his division,all of you protect Bhīṣma alone.”
अयनेषु
च
सर्वेषु
यथा
भागम्
अवस्थिताः ।
भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि ॥ ११ ॥
भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि ॥ ११ ॥
Prose order
Prose order (अन्वय)
भवन्तः सर्वे एव हि सर्वेषु अयनेषु च यथा भागम् अवस्थिताःभीष्मम् एव अभिरक्षन्तु
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥
Translation
Translation
“His glorious grandsire (Bhishma) , the oldest of the Kauravas, in order to cheer Duryodhana, roared like a lion and blew his conch.”
तस्य
सञ्जनयन् हर्षम्
कुरु - वृद्धः
पितामहः ।
सिंहनादम् विनद्य उच्चैः शङ्खम् दध्मौ प्रतापवान् ॥ १२ ॥
सिंहनादम् विनद्य उच्चैः शङ्खम् दध्मौ प्रतापवान् ॥ १२ ॥
Prose order
Prose order (अन्वय)
तस्य हर्षम् सञ्जनयन्, कुरुवृद्धः पितामहः प्रतापवान् सिंहनादम् विनद्य, शङ्खम् दध्मौ ।
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
Translation
Translation
Then (following Bhishma) , conches, kettle-drums, drums and cow-horns blared forth quite suddenly and the sound was tumultuous.
ततः
शङ्खाः
च
भेर्यः
च
पणवाः
आनकः
गोमुखाः ।
सहसा एव अभ्यहन्यन्त सः शब्दः तुमुलः अभवत् ॥ १३ ॥
सहसा एव अभ्यहन्यन्त सः शब्दः तुमुलः अभवत् ॥ १३ ॥
Prose order
Prose order (अन्वय)
ततः शङ्खाः च भेर्यः च पणवानक_गोमुखाः सहसा एव अभ्यहन्यन्त, सः शब्दः तुमुलः अभवत् ।
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
Translation
Translation
Then, also Madhava and the son of Pandu, seated in their magnificent chariot yoked with white horses, blew their divine conches.
ततः
श्वेतैः हयैः
युक्ते
महति स्यन्दने
स्थितौ ।
माधवः च पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
माधवः च पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
Prose order
Prose order (अन्वय)
ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः ।
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥
Translation
Translation
“Hrishikeśa (Krishna) blew the conch Pāñcajanya; Dhananjaya (Arjuna) blew Devadatta; and Vṛkodara, mighty in deeds, blew the great conch Pauṇḍra.”
पाञ्चजन्यम्
हृषीकेशः
देवदत्तम्
धनञ्जयः ।
पौण्ड्रम् दध्मौ महा - शङ्खम् भीम - कर्मा वृक - उदरः ॥ १५ ॥
पौण्ड्रम् दध्मौ महा - शङ्खम् भीम - कर्मा वृक - उदरः ॥ १५ ॥
Prose order
Prose order (अन्वय)
हृषीकेशः पाञ्चजन्यम्, धनञ्जयः देवदत्तम्, भीमकर्मा वृकोदरः पौण्ड्रम् महाशङ्खम् दध्मौ ।
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥
Translation
Translation
“King Yudhiṣṭhira, the son of Kuntī, blew the Anantavijaya; and Nakula and Sahadeva blew the Sughoṣa and the Manipushpaka.”
अनन्तविजयम्
राजा
कुन्ती - पुत्रः
युधिष्ठिरः ।
नकुलः च सहदेवः सुघोष मणिपुष्पकौ ॥ १६ ॥
नकुलः च सहदेवः सुघोष मणिपुष्पकौ ॥ १६ ॥
Prose order
Prose order (अन्वय)
कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजयम्, नकुलः सहदेवः च सुघोषमणिपुष्पकौ दध्मतुः ।
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥
Translation
Translation
“The King of Kāśī, an excellent archer; and Śikhaṇḍī, the great warrior;Dhṛṣṭadyumna, Virāṭa, and Sātyaki the unconquered—(all blew their conches).”
काश्यः
च
परम - इषु - आसः
शिखण्डी
च
महारथः ।
धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः ॥ १७ ॥
धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः ॥ १७ ॥
Prose order
Prose order (अन्वय)
काश्यः परमेष्वासः, शिखण्डी च महारथः, धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः ।
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥
Translation
Translation
“O lord of the earth (Dhṛtarāṣṭra), Drupada, and the sons of Draupadī, and the mighty-armed son of Subhadrā, all of them blew their conches separately.”
द्रुपदः
द्रौपदेयाः
च
on the earth
सौभद्रः च महा - बाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥ १८ ॥
सौभद्रः च महा - बाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥ १८ ॥
Prose order
Prose order (अन्वय)
द्रुपदः, द्रौपदेयाः च, सौभद्रः च महाबाहुः, सर्वशः हे पृथिवीपते, शङ्खान् दध्मुः पृथक् पृथक् ।
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १९ ॥
Translation
Translation
“That tumultuous sound rent the hearts of Dhṛtarāṣṭra’s sons, reverberating through the sky and the earth.”
सः घोषः
धार्तराष्ट्राणाम्
हृदयानि
व्यदारयत् ।
नभः च पृथिवीम् च एव तुमुलः अभ्यनुनादयन् ॥ १९ ॥
नभः च पृथिवीम् च एव तुमुलः अभ्यनुनादयन् ॥ १९ ॥
Prose order
Prose order (अन्वय)
सः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत्, नभः च पृथिवीम् च एव तुमुलः अभ्यनुनादयन् ।
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः । हृषीकेशं तदा वाक्यमिदमाह महीपते ॥ २० ॥
Translation
Translation
“O Lord of the Earth (Dhṛtarāṣṭra), then, seeing the sons of Dhṛtarāṣṭra standing ready as the battle was about to begin, the Pāṇḍava whose banner bears the monkey (Arjuna) raised his bow, and spoke these words to Hṛṣīkeśa,”
अथ
व्यवस्थितान्
दृष्ट्वा
धार्तराष्ट्रान्
कपि - ध्वजः ।
प्रवृत्ते शस्त्र - सम्पाते धनुः उद्यम्य पाण्डवः ।
हृषीकेशम् तदा इदम् वाक्यम् आह महीपते ॥ २० ॥
प्रवृत्ते शस्त्र - सम्पाते धनुः उद्यम्य पाण्डवः ।
हृषीकेशम् तदा इदम् वाक्यम् आह महीपते ॥ २० ॥
Prose order
Prose order (अन्वय)
अथ कपिध्वजः पाण्डवः, धार्तराष्ट्रान् व्यवस्थितान् दृष्ट्वा, शस्त्रसम्पाते प्रवृत्ते, धनुः उद्यम्य, हे महीपथे हृषीकेशम् इदम् वाक्यम् आह
अर्जुन उवाच ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥
Translation
Translation
Arjuna said: “O Acyuta (Krishna), place my chariot between the two armies.”
अर्जुनः उवाच ।
सेनयोः उभयोः मध्ये रथम् स्थापय मे अच्युत ॥ २१ ॥
सेनयोः उभयोः मध्ये रथम् स्थापय मे अच्युत ॥ २१ ॥
Prose order
Prose order (अन्वय)
हे अच्युत! उभयोः सेनयोः मध्ये मे रथं स्थापय ।
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ २२ ॥
Translation
Translation
“Let me observe those who stand here eager to fight.I want to see with whom I must battle in this great war.”
यावत्
एतान्
निरीक्षे अहम्
योद्धु - कामान्
अवस्थितान् ।
कैः मया सह योद्धव्यम् अस्मिन् रण - समुद्यमे ॥ २२ ॥
कैः मया सह योद्धव्यम् अस्मिन् रण - समुद्यमे ॥ २२ ॥
Prose order
Prose order (अन्वय)
यावत् अहम् एतान् निरीक्षे, योद्धुकामान् अवस्थितान्, कैः सह मया योद्धव्यम् अस्मिन् रणसमुद्यमे ।
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥
Translation
Translation
“I wish to see those who have assembled here and are prepared to fight, those who, in the battle, seek to please the evil-minded sons of Dhṛtarāṣṭra.”
योत्स्यमानान्
अवेक्षे अहम्
ये
एते
अत्र
समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः ॥ २३ ॥
धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः ॥ २३ ॥
Prose order
Prose order (अन्वय)
अहम् एतान् योत्स्यमानान् अवस्थितान् अवेक्षे; ये अत्र समागताः, दुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रियचिकीर्षवः ।
सञ्जय उवाच ।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
Translation
Translation
Sanjaya said: O Bharata, thus addressed by Gudakesha, Hrishikesha, having stationed the best of chariots between the two armies;
सञ्जय उवाच ।
एवम् उक्तः हृषीकेशः गुडाकेशेन भारत ।
सेनयोः उभयोः मध्ये स्थापयित्वा रथ-उत्तमम् ॥ २४ ॥
एवम् उक्तः हृषीकेशः गुडाकेशेन भारत ।
सेनयोः उभयोः मध्ये स्थापयित्वा रथ-उत्तमम् ॥ २४ ॥
Prose order
Prose order (अन्वय)
हे भारत! एवम् उक्तः हृषीकेशः गुडाकेशेन, उभयोः सेनयोः मध्ये रथोत्तमम् स्थापयित्वा ।
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान्कुरूनिति॥ २५ ॥
Translation
Translation
In front of Bhishma and Drona, and all the rulers of the earth, he said, O Partha, behold these Kurus gathered together.
भीष्म - द्रोण - प्रमुखतः
सर्वेषाम् च
महीक्षिताम् ।
उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति ॥ २५ ॥
उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति ॥ २५ ॥
Prose order
Prose order (अन्वय)
भीष्म_द्रोण_प्रमुखतः सर्वेषाम् च महीक्षिताम् उवाच, हे पार्थ! एतान् समवेतान् कुरून् पश्य इति ।
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन् पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
Translation
Translation
“There Arjuna saw standing before him his fathers, grandfathers, teachers, maternal uncles, brothers, sons, grandsons, and friends as well.”
तत्र
अपश्यत्
स्थितान्
पार्थः
पितॄन्
अथ
पितामहान् ।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा ॥ २६ ॥
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा ॥ २६ ॥
Prose order
Prose order (अन्वय)
अथ पार्थः उभयोः सेनयोः अपि तत्र स्थितान् पितॄन्, पितामहान्, आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान् तथा सखीन् अपश्यत् ।
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ कृपया परयाविष्टो विषीदन्निदमब्रवीत् । २७ ॥
Translation
Translation
He saw fathers-in-law and well-wishers as well, in both armies.Seeing all those kinsmen assembled, the son of Kuntī was filled with deep compassion, and sorrowfully spoke these words:
श्वशुरान्
सुहृदः
च
एव
सेनयोः उभयोः
अपि ।
समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥ २७ ॥
कृपया परयाविष्टः विषीदन् इदम् अब्रवीत् ।
समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥ २७ ॥
कृपया परयाविष्टः विषीदन् इदम् अब्रवीत् ।
Prose order
Prose order (अन्वय)
तान् सर्वान् बन्धून् अवस्थितान् श्वशुरान् सुहृदः च एव, उभयोः सेनयोः अपि, समीक्ष्य, सः कौन्तेयः , परया कृपया आविष्टः विषीदन् इदम् अब्रवीत् ।
अर्जुन उवाच ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ २८ ॥
Translation
Translation
Arjuna said “Seeing my own people, O Kṛṣṇa, standing here, ready for battle”
अर्जुन उवाच ।
दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम् ॥ २८ ॥
दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम् ॥ २८ ॥
Prose order
Prose order (अन्वय)
हे कृष्ण! इमम् स्वजनम् युयुत्सुम् समुपस्थितम् दृष्ट्वा ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥
Translation
Translation
“My limbs are failing, my mouth is drying up; my body trembles, and my hair stands on end.”
सीदन्ति
मम
गात्राणि
च
मुखं
परिशुष्यति ।
वेपथुः शरीरे मे च रोमहर्षः जायते ॥ २९ ॥
वेपथुः शरीरे मे च रोमहर्षः जायते ॥ २९ ॥
Prose order
Prose order (अन्वय)
मम गात्राणि सीदन्ति, मुखम् च परिशुष्यति, शरीरे मे वेपथुः, रोमहर्षः च जायते ।
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥
Translation
Translation
“The Gāṇḍīva bow slips from my hand, my skin burns all over; I am unable to stand, and my mind seems to whirl.”
गाण्डीवम्
स्रंसते
हस्तात्
च
त्वक्
एव
परिदह्यते ।
न च शक्नोमि अवस्थातुम् मनः भ्रमति इव च मे ॥ ३० ॥
न च शक्नोमि अवस्थातुम् मनः भ्रमति इव च मे ॥ ३० ॥
Prose order
Prose order (अन्वय)
हस्तात् गाण्डीवम् स्रंसते, त्वक् च एव परिदह्यते, न च शक्नोमि अवस्थातुम्, भ्रमति एव च मे मनः ।
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥
Translation
Translation
“O Keśava, I see omens only of misfortune; nor do I foresee any goodby slaying my own people in this battle.”
निमित्तानि
च
पश्यामि
विपरीतानि
केशव ।
न च श्रेयः अनुपश्यामि हत्वा स्वजनम् आहवे ॥ ३१ ॥
न च श्रेयः अनुपश्यामि हत्वा स्वजनम् आहवे ॥ ३१ ॥
Prose order
Prose order (अन्वय)
हे केशव! निमित्तानि विपरीतानि च पश्यामि; आहवे स्वजनम् हत्वा श्रेयः न अनुपश्यामि ।
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२ ॥
Translation
Translation
“I do not desire victory, O Krishna, nor kingdom, nor pleasures. Of what use to us is a kingdom, O Govinda, or enjoyments, or even life itself?”
न काङ्क्षे विजयम्
कृष्ण
न च
राज्यम्
च
सुखानि
च
किम् नः ।
राज्येन गोविन्द किम् भोगैः जीवितेन वा ॥ ३२ ॥
राज्येन गोविन्द किम् भोगैः जीवितेन वा ॥ ३२ ॥
Prose order
Prose order (अन्वय)
हे कृष्ण! न काङ्क्षे विजयम्, न च राज्यं सुखानि च; हे गोविन्द! नः राज्येन किं? भोगैः जीवितेन वा किं?
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥
Translation
Translation
“For whose sake we desire kingdom, enjoyments, and pleasures, those very persons now stand here in battle, ready to give up their lives and their wealth.”
येषाम् अर्थे
काङ्क्षितम्
नः
राज्यम्
भोगाः
च
सुखानि ।
ते इमे अवस्थिताः युद्धे त्यक्त्वा प्राणान् च धनानि ॥ ३३ ॥
ते इमे अवस्थिताः युद्धे त्यक्त्वा प्राणान् च धनानि ॥ ३३ ॥
Prose order
Prose order (अन्वय)
येषाम् अर्थे काङ्क्षितम् नः राज्यं भोगाः सुखानि च, ते इमे युद्धे अवस्थिताः, प्राणान् त्यक्त्वा धनानि च ।
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ ३४ ॥
Translation
Translation
“Teachers, fathers, sons, as well as grandfathers; uncles, fathers-in-law, grandsons, brothers-in-law, and other kinsmen as well.”
आचार्याः
पितरः
पुत्राः
तथा
एव च
पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा ॥ ३४ ॥
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा ॥ ३४ ॥
Prose order
Prose order (अन्वय)
आचार्याः, पितरः, पुत्राः, तथा एव च पितामहाः, मातुलाः, श्वशुराः, पौत्राः, श्यालाः, सम्बन्धिनः तथा ।
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५ ॥
Translation
Translation
Even if I am killed, O Madhusudana, I'm not eager to kill these people, not even for the sake of the three worlds, let alone this small kingdom."
एतान्
न
हन्तुम्
इच्छामि
घ्नतः अपि
मधुसूदन ।
अपि त्रैलोक्य - राज्यस्य किम् नु हेतोः महीकृते ॥ ३५ ॥
अपि त्रैलोक्य - राज्यस्य किम् नु हेतोः महीकृते ॥ ३५ ॥
Prose order
Prose order (अन्वय)
हे मधुसूदन! एतान् न हन्तुम् इच्छामि, घ्नतः अपि; अपि त्रैलोक्यराज्यस्य हेतोः, किम् नु महीकृते?
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ ३६ ॥
Translation
Translation
“By killing the sons of Dhṛtarāṣṭra, O Janārdana, what satisfaction could be ours? Sin alone would cling to us if we killed these aggressors.”
निहत्य
धार्तराष्ट्रान्
नः
का प्रीतिः
स्यात्
जनार्दन ।
पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः ॥ ३६ ॥
पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः ॥ ३६ ॥
Prose order
Prose order (अन्वय)
हे जनार्दन! धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात्? एतान् आततायिनः हत्वा पापम् एव अस्मान् आश्रयेत् ।
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७ ॥
Translation
Translation
“Therefore, we are not justified in killing the sons of Dhṛtarāṣṭra, our own kinsmen. How could we be happy, O Mādhava, after killing our own people?”
तस्मात्
न अर्हाः
वयम्
हन्तुम्
धार्तराष्ट्रान्
स्वबान्धवान् ।
स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव ॥ ३७ ॥
स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव ॥ ३७ ॥
Prose order
Prose order (अन्वय)
हे माधव! तस्मात् स्वबान्धवान् धार्तराष्ट्रान् हन्तुम् वयं न अर्हाः; हि स्वजनम् हत्वा कथं सुखिनः स्याम?
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥
Translation
Translation
Though these, with their intelligence clouded by greed, see no evil in the destruction of the families in the society, and no sin in their cruelty to friends
यदि
अपि
एते
न पश्यन्ति
लोभ - उपहत - चेतसः ।
कुल - क्षय - कृतम् दोषम् च मित्र - द्रोहे च पातकम् ॥ ३८ ॥
कुल - क्षय - कृतम् दोषम् च मित्र - द्रोहे च पातकम् ॥ ३८ ॥
Prose order
Prose order (अन्वय)
यदि अपि एते लोभोपहतचेतसः, कुलक्षयकृतम् दोषम् न पश्यन्ति, मित्रद्रोहे च पातकम् ।
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥
Translation
Translation
“How can we, O Janardana, escape the sin we have committed, the sin of causing the destruction of our own family?”
कथम्
न
ज्ञेयम्
अस्माभिः
निवर्तितुम्
पापात् अस्मात् ।
कुल - क्षय - कृतम् दोषम् प्रपश्यद्भिः जनार्दन ॥ ३९ ॥
कुल - क्षय - कृतम् दोषम् प्रपश्यद्भिः जनार्दन ॥ ३९ ॥
Prose order
Prose order (अन्वय)
हे जनार्दन! कथं न ज्ञेयम् अस्माभिः, अस्मात् पापात् निवर्तितुम्? वयं कुलक्षयकृतम् दोषम् प्रपश्यामः ।
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ४० ॥
Translation
Translation
In the destruction of a family, the immemorial religious rites of that family perish; on the destruction of spirituality, impiety overcomes the whole family.
कुल - क्षये
प्रणश्यन्ति
कुल - धर्माः सनातनाः ।
धर्मे नष्टे कुलम् कृत्स्नम् अधर्मः अभिभवति उत ॥ ४० ॥
धर्मे नष्टे कुलम् कृत्स्नम् अधर्मः अभिभवति उत ॥ ४० ॥
Prose order
Prose order (अन्वय)
कुल-क्षये सनातनाः कुल-धर्माः प्रणश्यन्ति, उत धर्मे नष्टे अधर्मः कृत्स्नम् कुलम् अभिभवति ।
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥
Translation
Translation
By the prevalence of impiety, O Krishna, the women of the family become corrupt; and women being corrupted, O descendent of the Vrishni-clan, there arises intermingling of castes
अधर्म - अभिभवात्
कृष्ण
प्रदुष्यन्ति
कुल - स्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण - सङ्करः ॥ ४१ ॥
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण - सङ्करः ॥ ४१ ॥
Prose order
Prose order (अन्वय)
हे कृष्ण! अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति; हे वार्ष्णेय! स्त्रीषु दुष्टासु वर्णसङ्करः जायते ।
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ ॥
Translation
Translation
Confusion of castes leads the slayer of the family to hell; for their forefathers fall, deprived of the offerings of PINDA (rice-ball) and water (libations) .
सङ्करः
नरकाय एव
कुल - घ्नानाम्
कुलस्य च ।
पतन्ति पितरः हि एषाम् लुप्त - पिण्ड - उदक - क्रियाः ॥ ४२ ॥
पतन्ति पितरः हि एषाम् लुप्त - पिण्ड - उदक - क्रियाः ॥ ४२ ॥
Prose order
Prose order (अन्वय)
वर्णसङ्करः नरकाय एव भवति, कुलघ्नानाम् कुलस्य च; एषाम् पितरः हि लुप्तपिण्डोदकक्रियाः पतन्ति ।
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥
Translation
Translation
By these evil deeds of the destroyers of the family, which cause confusion of castes, the eternal religious rites of the caste and the family are destroyed.
दोषैः
एतैः
कुल - घ्नानाम्
वर्ण सङ्कर कारकैः ।
उत्साद्यन्ते जाति धर्माः कुल - धर्माः च शाश्वताः ॥ ४३ ॥
उत्साद्यन्ते जाति धर्माः कुल - धर्माः च शाश्वताः ॥ ४३ ॥
Prose order
Prose order (अन्वय)
एतैः वर्णसङ्करकारकैः दोषैः कुलघ्नानाम् शाश्वताः जातिधर्माः कुलधर्माः च उत्साद्यन्ते ।
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥
Translation
Translation
“O Janardana (Krishna), we have heard that for humans who abandon the duties of their family, a fixed dwelling in hell is ordained.”
उत्सन्न
कुल - धर्माणाम्
मनुष्याणाम्
जनार्दन ।
नरके अनियतम् वासः भवति इति अनुशुश्रुम ॥ ४४ ॥
नरके अनियतम् वासः भवति इति अनुशुश्रुम ॥ ४४ ॥
Prose order
Prose order (अन्वय)
हे जनार्दन! उत्सन्नकुलधर्माणाम् मनुष्याणाम् नरके अनियतं वासः भवति इति अनुशुश्रुम ।
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥
Translation
Translation
“Alas! What great sin we are about to commit, being eager to kill our own kinsmen out of greed for the pleasures of kingship.”
अहो
बत
महत् पापम्
कर्तुम्
व्यवसिता वयम् ।
यत् राज्य सुख लोभेन हन्तुम् स्वजनम् उद्यताः ॥ ४५ ॥
यत् राज्य सुख लोभेन हन्तुम् स्वजनम् उद्यताः ॥ ४५ ॥
Prose order
Prose order (अन्वय)
अहो बत! वयम् महत् पापम् कर्तुम् व्यवसिता; यत् राज्यसुखलोभेन स्वजनम् हन्तुम् उद्यताः ।
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥
Translation
Translation
If the sons of Dhritarashtra, weapons-in-hand, slay me in battle, unresisting and unarmed, that would be better for me.
यदि
माम्
अप्रतीकारम्
अशस्त्रम्
शस्त्र - पाणयः ।
धार्तराष्ट्राः रणे हन्युः तत् मे भवेत् क्षेमतरम् ॥ ४६ ॥
धार्तराष्ट्राः रणे हन्युः तत् मे भवेत् क्षेमतरम् ॥ ४६ ॥
Prose order
Prose order (अन्वय)
यदि अहम् अप्रतीकारम् अशस्त्रम् रणे, शस्त्रपाणयः धार्तराष्ट्राः माम् हन्युः, तत् मे क्षेमतरम् भवेत् ।
सञ्जय उवाच ।
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥
Translation
Translation
Sanjaya said : Having thus spoken in the midst of the battle-field, Arjuna sat down on the seat of the chariot, casting away his bow and arrow, with a mind overwhelmed with grief.
सञ्जय उवाच ।
एवम् उक्त्वा अर्जुनः सङ्ख्ये रथ - उपस्थे उपाविशत् ।
विसृज्य सशरम् चापं शोक संविग्न मानसः ॥ ४७ ॥
एवम् उक्त्वा अर्जुनः सङ्ख्ये रथ - उपस्थे उपाविशत् ।
विसृज्य सशरम् चापं शोक संविग्न मानसः ॥ ४७ ॥
Prose order